
Kamakoti
February 28, 2025 at 06:18 AM
कामाक्षीकरुणारूपं कामकोटिजगद्गुरुम् ।
चिन्मूर्तिं कलये चित्ते शङ्कराचार्यमव्ययम् ॥
देवे देहे च देशे च भक्त्यारोग्यसुखप्रदम् ।
बुधपामरसेव्यं तं श्रीजयेन्द्रं नमाम्यहम् ॥
परित्यज्य मौनं वटाधःस्थितिं चव्रजन् भारतस्य प्रदेशात्प्रदेशम्।
मधुस्यन्दिवाचा जनान्धर्ममार्गेनयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते॥
सर्वाण्येतानि पीठानि शङ्करख्यापकानि वै।
मूलाम्नायतया ज्ञातं कामकोटीति संज्ञितम्।।
अवाततार कालट्यां काञ्च्यां स्वं पीठमादधे।
विदेहमुक्तिं चावाप यस्तं श्रीशङ्करं नुमः॥

🙏
❤️
47