संस्कृत संवादः
संस्कृत संवादः
February 5, 2025 at 05:53 PM
कुम्भत्रिवेणीस्तोत्रम् त्रैलोक्यस्यैकसारः पतितजनगणस्वान्तभारापहारः पाथोधेः पूर्तिकारः सगरसुतसमुद्धारलीलाप्रसारः। रूपेणोत्क्रान्तमारः सकलभववनातङ्कदावप्रहारः स्फीतोत्तुङ्गोर्मिहारः प्रवहति जगतां भूतये गाङ्गधारः॥१॥ अम्भोधेरनुहारिणी प्रणमतां पापौघसंहारिणी भोगानामुपहारिणी निरवधिश्रेयःसमाहारिणी। आपद्भीत्यपहारिणी निपतितश्रेणीसमुद्धारिणी शौरेश्चित्तविहारिणी रविसुता जीयान्मनोहारिणी॥२॥ शब्दब्रह्ममयीं सुधारसमयीमोङ्कारवीचीमयीं छन्दोगानमयीं कलागुणमयीं वेदान्तचिन्तामयीम्। काव्यानन्दमयीं नवारुणरजःस्रोतस्विनीं चिन्मयीं नित्यं नौमि सरस्वतीं द्रवमयीं देवीं स्वयं वाङ्मयीम्॥३॥ ज्ञानारुणोदकवती च सरस्वतीयं कृष्णा सुकर्मतटिनी च कलिन्दकन्या। चारित्र्यशुक्लसलिला विबुधापगा च स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥४॥ कुम्भोत्सवे जयति सत्यसनातनस्य धर्मस्य या जलमयी भुवने पताका। सा तीर्थराजतटिनी विशदा त्रिवेणी स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥५॥ आबालवृद्धजनसङ्कुलकूलवेणी कुम्भच्युतामृतपृषत्कणसिक्तवेणी। तीर्थाधिपे परमहंसविलासवेणी स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥६॥ सत्सम्प्रदायमठमन्दिरपालकानां निर्धूतमोहमनसां महतां गुरूणाम्। पादाब्जरेणुपरिपूततरङ्गवेणी स्नानाय ते भवतु मानस! सङ्गमेऽस्मिन्॥७॥ कुम्भे त्रिवेणि! तव तीरसमाश्रितेन लब्धं मया सुखशतं त्वयि मज्जनेन। निर्याणकालमनुचिन्त्य ततोऽधुना मे नीरं पुनः स्रवति नेत्रयुगात् त्वदीयम्॥८॥ कुम्भे त्रिवेणि! तव तोयकणस्य सङ्गात् सर्वाघपाशरहितोऽपि सुशङ्कितोऽस्मि। एकं क्षमस्व दुरितं तु ममावशिष्टं - स्पृष्टो हि यत् पदतलेन तव प्रवाहः॥९॥ यदि स्नातं मनो ज्ञानकर्मचारित्र्यसङ्गमे। सुफलं ते तदा पुण्यं त्रिवेणीतीर्थमज्जनम्॥१०॥ इति कुशाग्रानिकेतः। #celebrating_sanskrit

Comments