संस्कृत संवादः
February 15, 2025 at 11:10 AM
The verse below is quite intriguing, as it offers at least two distinct meanings. Numerous scholars have proposed various other interpretations as well. We will focus on the two meanings that appear to be the most compelling here.
अपार्थेतरयुक्तानां व्याससंग्रहशालिनाम्।
अपि गोपालगीतानां निवेशो निगमादिषु॥
१। अपि निगमादिषु नगरेषु व्याससङ्ग्रहशालिनां गोचारणाय गोसमूहस्य व्यासः तदन्ते तस्य सङ्ग्रह इति व्याससङ्ग्रहौ तत्कर्तॄणाम् अपार्थेतरयुक्तानाम् अर्थपूर्णानां गोपालगीतानां गवां पालकानां ग्राम्यगीतानां निवेशः प्रवेशो भवेत्।
It is possible that in urban areas, there would be an infusion of the meaningful folk songs of the gatherer-disperser (of cows), the cowherders.
२। अपि निगमादिषु वेदेषु व्याससङ्ग्रहशालिनां कृष्णद्वैपायनव्याससङ्कलितानाम् अपार्थेतरयुक्तानाम् अर्जुनसम्बोधितानां गोपालगीतानां श्रीमद्भगवद्गीतापद्यानां निवेशः न्यासो वर्तते।
Is there an inclusion of the verses recited by Gopala (Krishna), addressed to Arjuna and compiled by Vyasa in the Vedas?
≥ सुभाषितनीतिः । ११।७॥ #celebrating_sanskrit
🙏
1