संस्कृत संवादः
संस्कृत संवादः
February 22, 2025 at 08:09 AM
🌿 यः स्नातः शीतसितया साधुसंगतिगङ्गया। किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः॥ 🌞 शीतसितया शीतलमधुरया साधुसंगतिगङ्गया सज्जनसङ्गतिस्वरूपगङ्गानद्या यः स्नातः तस्य किं दानैः किं तीर्थैः किं तपोभिः किमध्वरैः यज्ञैः। 🌷 ठंडी और मीठी-मीठी सज्जनों के सत्संग स्वरूपा गंगा से जो नहा चुका है उसका दानों से क्या, तीर्थों से क्या, तपों से क्या और यज्ञों से क्या लेना-देना। 🌹 What's there to be obtained by charities, pilgrimages, austerities and sacrifices for those who have bathed in the cool and sweet Ganges that is the company of the good. 📍वल्लभदेवसुभाषितावलिः । २११॥  #subhashitam

Comments