संस्कृत संवादः
संस्कृत संवादः
March 1, 2025 at 04:07 AM
भगवान् शुद्धमनसः प्रार्थना अवश्यं शृणोति। 🙏🏼 प्रातर्मया एकः अन्धो 👨🏽‍🦯भिक्षुको दृष्टः। तं दृष्ट्वा मम हृदयं 🫶🏼 करुणया परिप्लुतम् अभूत्। 🥺 मया शीघ्रं भगवान् प्रार्थितः। 🙇🏻‍♂ हे भगवन् अस्मै दीनाय भिक्षुकाय दृष्टिं देहि। ततः तस्मै द्विसहस्ररूप्यकाणि 💸 दत्त्वा अहं कार्यालयं गतः। सायङ्काले प्रत्यागमनसमये मूल्यवन्तं वाहनं 🚘 चालयन्तं तम् एव भिक्षुकम् अहम् अदर्शम्। 😲 अहो बत कियान् कृपालुः परमेश्वरः। 😇 त्वरितं दीनाय दृष्टिर्दत्ता। 👁 #hasya 😊🤗

Comments