रंगोली (Rangoli) 🌈
रंगोली (Rangoli) 🌈
February 7, 2025 at 10:18 PM
श्रीविष्णोरष्टाविंशतिनामस्तोत्रम् अर्जुन उवाच किं नु नाम सहस्राणि जपते च पुनः पुनः । यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥ १॥ श्रीभगवानुवाच मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् । गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥ २॥ पद्मनाभं सहस्राक्षं वनमालिं हलायुधम् । गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥ ३॥ विश्वरूपं वासुदेवं रामं नारायणं हरिम् । दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥ ४॥ अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् । गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥ ५॥ कन्यादानसहस्राणां फलं प्राप्नोति मानवः । अमायां वा पौर्णमास्याम् एकादश्यां तथैव च ॥ ६॥ सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च । मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥ । इति श्रीकृष्णार्जुनसंवादे श्रीविष्णोरष्टाविंशतिनामस्तोत्रं सम्पूर्णम् ।
🙏 2

Comments