रंगोली (Rangoli) 🌈
रंगोली (Rangoli) 🌈
February 18, 2025 at 11:50 PM
अथ श्री द्वादश ज्योतिर्लिंग स्तोत्रम् सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम्। उज्जयिन्यां महाकालमोंकारे परमेश्वरम्।। केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्। वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे।। वैद्यनाथं चिताभूमौ नागेशं दारुकावने। सेतुबंधे च रामेशं घुश्मेशं च शिवालये।। द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्। सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत्।। यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः। प्राप्स्यंति कामं तं तं हि परत्रेह मुनीश्वराः।। ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः। तेषां च जननीगर्भे वासो नैव भविष्यति।। इति श्रीशिवमहापुराणोक्तं द्वादश ज्योतिर्लिंग स्तोत्रम् सम्पूर्णम् ।। नमः पार्वती पतये, हर हर हर महादेव हर ।।
🙏 1

Comments